1. संगच्छध्वं संवदध्वं – Textbook Solutions

पृष्ठम् 7: प्रश्नानि

1. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च ।
उत्तरम्: स्वयं करोतु।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) सर्वेषां मनः कीदृशं भवेत् ?
उत्तरम्:  सर्वेषां मनः सामञ्जस्ययुक्तं सौहार्दपूर्णं च भवेत्।

(ख) “सङ्गच्छध्वं संवदध्वम्” इत्यस्य कः अभिप्रायः ? 
उत्तरम्: “सङ्गच्छध्वं संवदध्वम्” इत्यस्य अभिप्रायः अस्ति यः मानवः समाजे ऐक्यभावेन मिलित्वा गच्छेत् तथा परस्परं सम्यक् विचारविनिमयं कुर्यात्। (“संगच्छध्वं संवदध्वम्” का अर्थ है कि सभी मनुष्य समाज में एकता के साथ मिलकर चलें और परस्पर अच्छे विचारों का आदान-प्रदान करें।)

(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः? 
उत्तरम्: सर्वे वैमनस्यं परित्यज्य ऐक्यभावेन जीवेयुः। 

(घ) अस्मिन् पाठे का प्रेरणा अस्ति? 
उत्तरम्: अस्मिन् पाठे मानवजातेः ऐक्यभावेन सहकार्यं कृत्वा सुखपूर्वकं जीवनं यापनस्य प्रेरणा अस्ति। 

3. रेखा‌ङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।  _____________________
उत्तरम्:
  कः सर्वत्र व्याप्तः अस्ति? 

(ख) वयम् ईश्वरं नमामः। _____________________
उत्तरम्:
 वयं कं नमामः? 

(ग) वयम् ऐक्यभावेन जीवामः।  _____________________
उत्तरम्:
 वयं कथं जीवामः? 

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते।  _____________________
उत्तरम्:
 कस्य प्रार्थनया शान्तिः प्राप्यते? 

(ङ) अहं समाजाय श्रमं करोमि। _____________________
उत्तरम्: 
कस्मै अहं श्रमं करोमि? 

(च) अयं पाठः ऋग्वेदात् सङ्कलितः। _____________________
उत्तरम्: 
अयं पाठः कस्मात् सङ्कलितः? 

(छ) वेदस्य अपरं नाम श्रुतिः। _____________________
उत्तरम्:
 कस्य अपरं नाम किम्? 

(ज) मन्त्राः वेदेषु भवन्ति। _____________________
उत्तरम्: 
मन्त्राः कुत्र भवन्ति? 

पृष्ठम् 8: प्रश्नानि

4. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत.

(क)  सङ्गच्छध्वं  ________  सं वो  _______  जानताम्।
देवा _______  यथा पूर्वे सं  _______ उपासते।

उत्तरम्: सङ्गच्छध्वं  संवदध्वं  सं वो  मनांसि  जानताम्।
देवा भागं  यथा पूर्वे सं  जानाना  उपासते।

(ख) समानो मन्त्रः _______ समानी समानं _______  सह चित्तमेषाम्।
_______ मन्त्रमभिमन्त्रये वः समानेन वो _______  जुहोमि।

उत्तरम्: समानो मन्त्रः समितिः  समानी समानं  मनः  सह चित्तमेषाम्।
समानं  मन्त्रमभिमन्त्रये वः समानेन वो हविषा  जुहोमि।

(ग) समानी व _______  समाना  _______  वः।
समानमस्तु वो _______ यथा वः _______।

उत्तरम्: समानी व आकूतिः  समाना  हृदयानि  वः।
समानमस्तु वो मनो  यथा वः  सुसहासति

5. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत –

उत्तरम्:


6. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
यथा— बालिकाः नृत्यन्ति  ‘बालिकाः नृत्यन्तु
(क) बालकाः हसन्ति  _______________
(ख) युवां तत्र गच्छथः  _______________
(ग) यूयं धावथ  _______________
(घ) आवां लिखावः  _______________
(ङ) वयं पठामः  _______________

उत्तरम्: