प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम्- दुर्वहमत्र
(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम्- कालायासचक्रम्
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम्- भक्ष्यम्
(घ) अहं कस्मै जीवनं कामये?
उत्तरम्- मानवाय
(ङ) केषां माला रमणीया?
उत्तरम्- ललितलतानां
प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम्- कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम्- यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम्- अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम्- कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम्- स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम्- अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।
प्रश्न.3. सन्धिं / सन्धिविच्छेदं कुरुत-
(क) प्रकृतिः + ______ = प्रकृतिरेव
उत्तरम्- एव
(ख) स्यात् + ______ + ______ = स्यान्नैव
उत्तरम्- न, एव
(ग) ______ + अनन्ता = ह्यनन्ताः
उत्तरम्- हि
(घ) बहिः + अन्तः + जगति = ______
उत्तरम्- बहिरन्तर्जगति
(ङ) ______ + नगरात् = अस्मान्नगरात्
उत्तरम्- अस्मात्
(च) सम् + चरणम् = ______
उत्तरम्- पञ्चरणम्
(छ) धूमम् + मुञ्चति = ______
उत्तरम्- धूमंमुञ्चति
प्रश्न.4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
उत्तरम्- भृशम्
(ख) ______ जीवन दुर्वहम् अस्ति।
उत्तरम्- अत्र
(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम्ला ______ भदायकं भवति।
उत्तरम्- अपि
(घ) पर्यावरणस्य संरक्षणम्प्र ______ कृतेः आराधना।
उत्तरम्- एव
(ङ) ______ समयस्य सदुपयोगः करणीयः।
उत्तरम्- सदा
(च) भूकम्पित-समये ______ गमनमेव उचितं भवति।
उत्तरम्- बहिः
(छ) ______ हरीतिमा ______ शुचि पर्यावरणम्।
उत्तरम्- यत्र, तत्र
प्रश्न.5. (अ). अधोलिखितानां पदानां पर्यायपदं लिखत-
(क) सलिलम् – ______
(ख) आम्रम् – ______
(ग) वनम् – ______
(घ) शरीरम् – ______
(ङ) कुटिलम् – ______
(च) पाषाणः – ______
उत्तरम्-
(क) जलम्
(ख) रसालम्
(ग) कान्तारम्
(घ) तनुः
(ङ) वक्रम्
(च) प्रस्तर:
(आ). अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) सुकरम् – ______
(ख) दूषितम् – ______
(ग) गृह्णन्ती – ______
(घ) निर्मलम् – ______
(ङ) दानवाय – ______
(च) सान्ताः – ______
उत्तरम्-
(क) दुष्करम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्
प्रश्न.6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

उत्तरम्-
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास
प्रश्न.7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्- कीदृशम्
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्- केषाम्
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्- के
(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्- केषु कुत्र
(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्- कस्याः