प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) मनुष्याणां महान् रिपुः कः?
उत्तरम्- आलस्यं
(ख) गुणी किं वेत्ति?
उत्तरम्- गुणं
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम्- महताम्
(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम्- उदीरितोऽर्थः
(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तरम्- सविता
प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धुः नास्ति?
उत्तरम्- उद्यमेन समः बन्धुः नास्ति।
(ख) वसन्तस्य गुणं क: जानाति?
उत्तरम्- पिक: वसन्तस्य गुणं जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तरम्- परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।
(घ) नराणां प्रथमः शत्रुः कः?
उत्तराणि: नराणां प्रथमः शत्रुः क्रोधः।
(ङ) सुधियः सख्यं केन सह भवति?
उत्तराणि: सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तरम्- अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।
प्रश्न.3.अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
(क) यः _______ उद्दिश्य प्रकुप्यति तस्य _______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, _______ तं कथं परितोषयिष्यति?
उत्तरम्- य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?
(ख) _______ संसारे खल _______ निरर्थकम् नास्ति। अश्वः चेत् _______ वीरः खर: _______ वहने (वीर:) (भवति)।
उत्तरम्- विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।
प्रश्न.4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम्- अनुक्तमप्यूहति पण्डितो जनः।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तरम्- समान-शील-व्यसनेषु सख्यम्।
(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तरम्- नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम्- सम्पत्तौ च विपत्तौ च महतामेकरूपता।
प्रश्न.5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम्- गुणिनः गुणान् गुणानि जानन्ति।
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम्- पशुना उदीरितः अर्थः गृहयते।
(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तरम्- मृगः मृगेण सह अनुव्रजति।
(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तरम्- केन छाया निर्वायते।
(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तरम्- एषः एव अग्नि शरीर दहति।
प्रश्न.6. (अ). सन्धि / सन्धिविच्छेदं कुरुत-
(क) न + अस्ति + उद्यमसम: – ______.
उत्तराणि: नास्त्युद्यमसमः
(ख) ______ + ______ – तस्यापगमे
उत्तरम्- तस्य + अपगमे
(ग) अनुक्तम् + अपि + ऊहति – ______
उत्तरम्- अनुक्तमप्यूहति
(घ) ______ + ______ – गावश्च
उत्तरम्- गावः + च
(ङ) ______ + ______ – नास्ति
उत्तराणि: न + अस्ति
(च) रक्तः + च + अस्तमये – ______
उत्तरम्- रक्तश्चास्तमये
(छ) ______ + ______ – योजकस्तत्र
उत्तरम्- योजक: + तत्र
(आ). समस्तपदं/विग्रहं लिखत-
(क) उद्यमसमः – ______
(ख) शरीरे स्थितः – ______
(ग) निर्बल: – ______
(घ) देहस्य विनाशाय – ______
(ङ) महावृक्षः – ______
(च) समानं शीले व्वसनं येषां तेषु – ______
(छ) अयोग्यः – ______
उत्तरम्-
(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:
प्रश्न.7. (अ). अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
(क) प्रसीदति – ______
(ख) मूर्खः – ______
(ग) बली – ______
(घ) सुलभः – ______
(ङ) संपत्ती – ______
(च) अस्तमये – ______
(छ) सार्थकम् – ______
उत्तरम्-
(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्
(आ). संस्कृतेन वाक्यप्रयोगं कुरुत-
उत्तराणि:
(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।