13. वर्णोच्चारण-शिक्षा १ – Textbook Solutions

पृष्ठम् 155: प्रश्नानि

1. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन द्विपदेन वा उत्तरत
(क) उरसि किं तन्त्रं भवति? 
उत्तरम्: वायुबलतन्त्रम्।

(ख) नाभिप्रदेशे स्थिताः मांसपेश्यः किं नोदयन्ति? 
उत्तरम्: श्वासप्रवृत्तिम्। 

(ग) आस्यस्य आभ्यन्तरे वार्णानाम् उत्पत्त्यर्थं द्वितीयं तत्त्वं किम् अस्ति? 
उत्तरम्: करणम्। 

(घ) आस्ये कति स्थानानि सन्ति? 
उत्तरम्: षट् स्थानानि। 

(ङ) स्थानस्य कार्यनिदर्शनार्थं किं समुचितम् उदाहरणम् अस्ति? 
उत्तरम्: मुरली। 

(च) करणानि मुरल्याः कस्य भागम् इव व्यवहरन्ति? 
उत्तरम्: अङ्गुलीभागस्य। 

2. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत।
(क) करणं किं भवति? 
उत्तरम्: करणं तदङ्गं भवति, यत् वर्णस्य उच्चारणसमये स्थानं स्पृशति वा समीपं याति। 

(ख) उरः श्वासकोशस्थितं वायुं कुत्र निःसारयति? 
उत्तरम्: उरः श्वासकोशे स्थितं वायुं ऊर्ध्वं निःसारयति। 

(ग) मुरल्याः अङ्गुलिच्छिद्राणि कीदृशं व्यवहरन्ति? 
उत्तरम्: मुरल्याः अङ्गुलिच्छिद्राणि आस्यस्य स्थानानि इव व्यवहरन्ति।

(घ) केषां वर्णानाम् उच्चारणे जिह्वा प्रायः निष्क्रिया भवति? 
उत्तरम्: कण्ठ्यानां, ओष्ठ्यानां, नासिक्यानां च वर्णानाम् उच्चारणे जिह्वा प्रायः निष्क्रिया भवति। 

(ङ) तालव्यानां, मूर्धन्यानां, दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं किम् अस्ति? 
उत्तरम्: तालव्यानां, मूर्धन्यानां, दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं जिह्वा भवति। 

(च) कण्ठ्यानां, ओष्ठ्यानां, नासिक्यानां च वर्णानाम् उच्चारणार्थं स्थानस्य करणस्य च मध्ये किं भवति? 
उत्तरम्: कण्ठ्यानां, ओष्ठ्यानां, नासिक्यानां च वर्णानाम् उच्चारणे स्थानमेव करणं भवति। 

3. अधोलिखितेषु वाक्येषु आम् /  इति लिखित्वा उचितभावं सूचयत
(क) श्वासकोशस्थितः वायुः ऊर्ध्वं चरन् पूर्वम् आस्यं प्राप्नोति।
उत्तरम्: न

(ख) सर्वप्रथमं नाभि-प्रदेशे स्थिताः मांसपेश्याः कण्ठं नोदयन्ति।
उत्तरम्: न

(ग) आस्यस्य आभ्यन्तरे वर्णानाम् उत्पत्त्यर्थम् आभ्यन्तर-प्रयत्नः आवश्यकम् अस्ति।
उत्तरम्: आम्

(घ) तालव्य-वर्णनाम् उच्चारणार्थं दन्तः स्थानं स्पृशति।
उत्तरम्: न

(ङ) मूर्धन्यानां वर्णानाम् उच्चारणार्थं जिह्वा स्थानं स्पृशति।
उत्तरम्: आम्

(च) तत्तत्स्थानस्य एव कश्चित् पूर्वभागः, तत्तत्स्थानस्य परभागं स्पृशति।
उत्तरम्: आम्

पृष्ठम् 156: प्रश्नानि

4. मुखे उपलभ्यमानानि स्थानानि बहिष्ठात् अन्तः यथाक्रमं (अर्थात् विपरीत – क्रमेण) लिखन्तु –
(क) मूर्धा __________
(ख) दन्तः __________
(ग) तालु __________
(घ) कण्ठः __________
(ङ) ओष्ठः __________

उत्तरम्:
(ङ) ओष्ठः
(ख) दन्तः
(ग) तालु
(क) मूर्धा
(घ) कण्ठः

5. यथायोग्यं मेलनं कुरुत –
उत्तरम्: