05 सेवा हि परमो धर्मः- अध्याय समाधान

1. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु—
(क) कः प्रसिद्धः चिकित्सकः आसीत्?
उत्तरम्: नागार्जुनः

(ख) अन्यस्मिन्दिवसे कौ आगतौ?
उत्तरम्: द्वौ युवकौ

(ग) कः खिन्नः आसीत्?
उत्तरम्: द्वितीयः युवकः

(घ) रुग्णस्य परिस्थितिः कथम् आसीत्?
उत्तरम्: शोचनीया

(ङ) नागार्जुनः सहायकत्वेन कं चितवान्?
उत्तरम्: द्वितीयं युवकम्

(च) कां विना चिकित्सकः न भवति?
उत्तरम्: सेवाभावनाम्

(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्?
उत्तरम्: राजमार्गेण

2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु—
(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म?
उत्तरम्: अहोरात्रं नागार्जुनः प्रयोगशालायां कार्यं करोति स्म।

(ख) नागार्जुनः महाराजं किं निवेदितवान्?
उत्तरम्: नागार्जुनः महाराजं निवेदितवान् यत् मम चिकित्साकार्याय एकः सहायकः आवश्यकः इति।

(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
उत्तरम्: प्रथमः युवकः यन्त्रवत् कार्यं कृतवान्, स्वगृहस्य समस्याः परित्यज्य औषधं निर्मितवान्।

(घ) द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
उत्तरम्: द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा तं स्वगृहं नीतवान्, दिनद्वयं तस्य सेवायां निरतः आसीत्।

(ङ) सेवायाः भावनां विना किं न भवेत्?
उत्तरम्: सेवायाः भावनां विना चिकित्सकः न भवति।

3. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्गरूपाणि लिखन्तु—
उत्तरम्: 
4. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु—
उत्तरम्: 
5. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु—
(क) युवकः आपणं गच्छति।
उत्तरम्: युवकः आपणं गतवान्।

(ख) सः रोटिकां खादति।
उत्तरम्: सः रोटिकां खादितवान्।

(ग) महिला वस्त्रं ददाति।
उत्तरम्: महिला वस्त्रं दत्तवती।

(घ) बालकः द्विचक्रिकातः पतति।
उत्तरम्: बालकः द्विचक्रिकातः पतितवान्।

(ङ) पितामही चलच्चित्रं पश्यति।
उत्तरम्: पितामही चलच्चित्रं दृष्टवती।

(च) अहं गृहपाठं लिखामि।
उत्तरम्: अहं गृहपाठं लिखितवान्/लिखितवती।

(छ) त्वं कुत्र गच्छसि?
उत्तरम्: त्वं कुत्र गतवान्/गतवती?

(ज) अश्वाः वने धावन्ति।
उत्तरम्: अश्वाः वने धावितवन्तः।

(झ) बालिकाः शीघ्रम् आगच्छन्ति।
उत्तरम्: बालिकाः शीघ्रम् आगतवत्यः।

(ञ) वयं समुद्रतीरे पयोहिमं खादामः।
उत्तरम्: वयं समुद्रतीरे पयोहिमं खादितवन्तः।

6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु—
उत्तरम्: 
शीर्षकम्: कृषकस्य जीवनम्
कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म। जलसेचनं करोति स्म। कीटानां निवारणार्थं जैवौषधं स्थापयति स्म। सः कृषिकार्यं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म। सः स्वाभिमानेन जीवति स्म। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं वदति स्म। सः क्षेत्रे गोमयं योजयति स्म, न तु कृत्रिमान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका भवति स्म। जनाः जालपटुमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म। एवम् तस्य परिवारस्य सर्वे जनाः कृषिकार्येण सुखं जीवन्ति स्म। सः सर्वान् वदति स्म “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति।