10.अनोक्त्यः- अध्याय: समाधान

प्रश्न 1. एकपदेन उत्तरं लिखत
(क) कस्य शोभा एकेन राजहंसेन भवति?
(ख) सरसः तीरे के वसन्ति?
(ग) कः पिपासितः म्रियते?
(घ) के रसालमुकुलानि समाश्रयन्ते?
(ङ) अम्भोदाः कुत्र सन्ति?
उत्तर: 
(क) सरोवरस्य/सरसः
(ख) बकाः
(ग) चातकः
(घ) भृङ्गाः
(ङ) गगने

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) सरसः शोभा केन भवति?
(ख) चातक: किमर्थं मानी कथ्यते?
(ग) मीनः कदा दीनां गतिं प्राप्नोति?
(घ) कानि पूरयित्वा जलदः रिक्तः भवति?
(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर:

(क) सरसः शोभा राजहंसेन भवति।
(ख) पिपासितः चातकः, पुरन्तरं जलं याचते म्रियते वा। अतः चातक: मानी कथ्यते।
(ग) सरोवरस्य सङ्कोचम् अञ्चति मीनः दीनां गतिं प्राप्नोति।
(घ) नानानदीनदशतानि पूरयित्वा जलद: रिक्तः भवति।
(ङ) वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

प्रश्न 3. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
(ङ) चातकः वने वसति।
उत्तर: 
(क) मालाकारः कैः तरोः पुष्टिं करोति?
(ख) भृङ्गाः कानि समाश्रयन्ते?
(ग) के अम्बरपथम् आपेदिरे?
(घ) कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?
(ङ) चातकः कुत्र वसति?

प्रश्न 4. अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत
(अ) तोयैरल्पैरपि ……………….. वारिदेन। भावार्थ:-धाराप्रवाहं जलं वर्षयता …. (i). .. जलदेन वृक्षाः पादपाः च तादृशाः …(ii)……… न भवन्ति। यथा ………..(iii)……….. मालाकारेण दत्तं अल्पमपि जलं वृक्षान् पोषयति। इत्येवं आवश्यकतायां विपत्तौ वा अत्यल्पं …………(iv)……….. अपि महत्त्वपूर्ण वर्तते।
उत्तर: 
(i) वर्षाकालिकेन
(ii) तृप्ताः/सन्तुष्टाः
(iii) ग्रीष्म?
(iv) सहायम्

(आ) रे रे चातक ……………………. दीनं वचः।
भावार्थ:- मेघस्य जलबिन्दवैः एव तृप्तं ……. (i)………. कविः कथयति यत् ……. (ii)……… बहवः मेघाः सन्ति परम् सर्वे न वर्षन्ति। केचित् वृथा गर्जन्ति। जलपूर्णाः मेघाः एव वर्षित्वा … (iii)……… आर्द्रयन्ति। अतः त्वम् यस्य कस्यापि अग्रे ..(iv)……. मा ब्रूहि।
उत्तर: 
(i) चातकं
(ii) आकाशे
(iii) पृथ्वी
(iv) दीनवचनानि

प्रश्न 5. अधोलिखितयोः श्लोकयोः अन्वयं लिखत
(अ) आपेदिरे ……… कतमां गतिमभ्युपैति ।
(आ) आश्वास्य ………… सैव तवोत्तमा श्रीः॥
उत्तर: 
(अ) पतङ्गाः परितः अम्बरपथत् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सङ्कोचम्
अञ्चति, हन्त दीनदीनः मीनः तु कतमां गतिम् अभ्युपैतुः।
(आ) तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च नानानदीनदशतानि पूरयित्वा
च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।

प्रश्न 6. उदाहरणमनुसत्य सन्धिं/सन्धिविच्छेदं वा कुरुत
उत्तर:

प्रश्न 7. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत
विग्रहपदानि — समस्त पदानि
यथा- पीतं च तत् पङ्कजम् = पीतपङ्कजम्
(क) राजा च असौ हंसः = ……………
(ख) भीमः च असौ भानुः = ……………
(ग) अम्बरम् एव पन्थाः = ……………
(घ) उत्तमा च इयम् श्रीः = ……………
(ङ) सावधानं च तत् मनः, तेन = ……………
उत्तर: 
(क) राजहंसः
(ख) भीमभानुः
(ग) अम्बरपंथाः
(घ) उत्तमश्री:
(ङ) सावधानमनसा

09.भूकम्पविभीषिका- अध्याय: समाधान

प्रश्न 1. एकपदेन उत्तरं लिखत
(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती?
(ख) कीदृशानि भवनानि धाराशायीनि जातानि?
(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?
(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?
(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?
उत्तर: 
(क) भूकम्पस्य
(ख) बहुभूमिकानि
(ग) महाप्लावनदृश्यम्
(घ) भूकम्पस्य
(ङ) विवशाः

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
(ग) पृथिव्याः स्खलनात् किं जायते?
(घ) समग्रं विश्वं कैः आतंकितः दृश्यते?
(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर: 
(क) समस्तराष्ट्र गणतन्त्र-दिवस-पर्वणि नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।
(ख) भूकम्पस्य केन्द्रबिन्दुः भुजनगरं जनपदः आसीत्।
(ग) पृथिव्याः स्खलनात् महाकम्पन जायते येन महाविनाशदृश्यं समुत्पद्यते।
(घ) समग्रो विश्वः भूकम्पैः आतंकितः दृश्यते।
(ङ) ज्वालामुखपर्वतानां विस्फोटैः अपि भूकम्पो जायते।

प्रश्न 3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।

प्रश्ना:- (क) भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?
(ख) के कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते?
(ग) विवशाः प्राणिनः कुत्र/कस्मिन् पिपीलिकाः इव निहन्यन्ते?
(घ) कीदृशी भयावहघटना गढ़वालक्षेत्रे घटिता?
(ङ) तदिदानीम् किम् विचारणीयं तिष्ठति?

प्रश्न 4. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
उत्तर: 
भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनम् इत्यादयः वैपरीत्यमेव भूकम्पः कथ्यते। भूकम्पः यदा सम्भवति तदा तरङ्गानां सरण्या भूमिः कम्पिता भवति। भूकम्पस्य केन्द्र परितः एते तरङ्गाः भूकम्प: यदाकदा महाविनाशस्य कारणं भवति। भूकम्पेन क्षणेनैव भवनानि धराशायीनि भवन्ति।

प्रश्न 5. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
(क) समग्रं भारतम् उल्लासे मग्नः ………………। (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं …………… (कृ + क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः ……… (भू + लङ्, प्रथम-पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां . ..। (भू + लट्, प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः . … यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे …. … । (सम् + आ + विश् + विधिलिङ्, प्रथम-पुरुषः एकवचनम्)
उत्तर: 
(क) समग्रं भारतम् उल्लासे मग्नः अस्ति।
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं कृतवती।
(ग) क्षणेनैव प्राणिनः गृहविहीनाः अभवन्।
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति।
(ङ) मानवाः पृच्छन्ति यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
(च) नदीवेगेन ग्रामः तदुदरे समाविशेत्।

प्रश्न 6. सन्धिं/सन्धिविच्छेदं च कुरुत
उत्तर: (क) किञ्च = किम् + च
(ख) नगरन्तु = नगरम् + तु
(ग) विपन्नञ्च = विपन्नम् + च
(घ) किन्नु = किम् + नु
(ङ) भुजनगरन्तु = भुजनगरम् + तु
(च) सञ्चयः = सम् + चयः
(आ) विसर्गसन्धिनियमानुसारम् –
उत्तर: (क) शिशवस्तु = शिशवः + तु
(ख) विस्फोटैरपि = विस्फोटैः  अपि
(ग) सहस्रोशोऽन्ये = सहस्त्रः + अन्ये
(घ) विचित्रोऽयम् = विचित्रः अयम्
(ङ) भूकम्पो जायते = भूकम्पः + जायते
(च) वामनकल्प एव = वामनकल्प + एव

प्रश्न 7. (अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत
(क) — (ख)
सम्पन्नम् — प्रविशन्तीभिः
ध्वस्तभवनेषु — सुचिरेणैव
निस्सरन्तीभिः — विपन्नम्
निर्माय — नवनिर्मितभवनेषु
क्षणेनैव — विनाश्य
उत्तर:

(क) — (ख)
(1) सम्पन्नम् — विपन्नम्
(2) ध्वस्तभवनेषु — नवनिर्मितभवनेषु
(3) निस्सरन्तीभिः — प्रविशन्तीभिः
(4) निर्माय — विनाश्य
(5) क्षणेनैव — सुचिरेणैव

(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि तयोः संयोगं कुरुत
(क) — (ख)
पर्याकुलम् — नष्टाः
विशीर्णाः — क्रोधयुक्ताम्
उद्गिरन्तः — संत्रोट्य
विदार्य — व्याकुलम्
प्रकुपिताम् — प्रकटयन्तः
उत्तर:

(क) — (ख)
(1) पर्याकुलम् — व्याकुलम्
(2) विशीर्णाः — नष्टाः
(3) उगिरन्तः — प्रकटयन्तः
(4) विदार्य — संत्रोट्य
(5) प्रकुपिताम् — क्रोधयुक्ताम्

प्रश्न 8.
(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत

उत्तर:

(आ) पाठात् विचित्य समस्तपदानि लिखत
(i) महत् च तत् कम्पनं = ……………
(ii) दारुणा च सा विभीषिका = ……………
(ii) ध्वस्तेषु च तेषु भवनेषु = ……………
(iv) प्राक्तने च तस्मिन् युगे = ……………
(v) महत् च तत् राष्ट्र तस्मिन् = ……………
उत्तर:

(i) महत्कम्पनम्
(ii) दारुणविभीषिका
(iv) प्राक्तनयुगे
(v) महाराष्ट्र
(iii) ध्वस्तभवनेषु

08. सूक्तयः- अध्याय: समाधान

प्रश्न.1. प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्)
(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तरम्- 
विधाधनम्

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तरम्- धर्मप्रदा

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तरम्-
 विद्धांसः

(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तरम्- 
सदाचारः

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्
उत्तरम्- 
अहितम्

(च) वाचि किं भवेत्?
उत्तरम्-
 अवकृता

प्रश्न.2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
यथा-विमूढधी:
पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तरम्- संसार का ज्ञानचक्षुभिः नेत्रवन्तः कध्यन्ते?

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तरम्- जनकेन कस्मै शैशवे विद्याधनं दीयते?

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तरम्- कस्य निर्णयः 14वेकेन कर्तुं शक्यः?

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तरम्- 
धैर्यवान् कत्र परिभवं न प्राप्नोति?

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तरम्- आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?

प्रश्न.3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
(क) पिता ______ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ______
उत्तरम्- 
पुत्राय, तत्कृतज्ञता।

(ख) येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तु ______ भवेत्, सः ______ इति  ______ 
उत्तरम्- 
केनापि, शक्यः, विवेक ईरितः।

(ग) य आत्मनः श्रेयः ______ सुखानि च इच्छति, परेभ्यः अहितं ______ कदापि च न ______
उत्तरम्- 
प्रभूतानि, कर्म, कुर्यात्।

प्रश्न 4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
क. श्लोक संख्या – 3
यथा- सत्या मधुरा च वाणी का? धर्मप्रदा

(क) धर्मप्रदां वाचं कः त्यजति?
उत्तरम्- 
विमूदधी:

(ख) मूढः पुरुषः कां वाणीं वदति?
उत्तरम्- परुषाम्

(ग) मन्दमतिः कीदृशं फलं खादति?
उत्तरम्- अपक्वम्

ख. श्लोक संख्या – 7
यथा- बुद्धिमान् नरः किम् इच्छति? आत्मनः श्रेयः
(क) कियन्ति सुखानि इच्छति? ______
उत्तरम्- 
प्रभूतानि

(ख) सः कदापि किं न कुर्यात्? ______
उत्तर: 
अहितम् कर्म

(ग) सः केभ्यः अहितं न कुर्यात्? ______ 
उत्तर: परेभ्यः

प्रश्न.5. मञ्जूषायाः तद् भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
(क) विद्याधनं महत्
उत्तरम्- 
विद्याधनं सर्वधन प्रधानम्
विद्याधनं श्रेष्ठ तन्मूलमितद्धनम्

(ख) आचारः प्रथमो धर्मः
उत्तरम्- आचारेण तु संयुक्तः सम्पूर्ण फल भाग्भवेत्
आचार प्रमवो धर्मः सत्त चाचार लक्षणाः

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
उत्तरम्- सं वो मनांसि जानताम्। मनसि एक वचसि एक
कर्मणि एक महात्मनाम्।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलपितरद्धनम्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

प्रश्न.6. (अ) अधोलिखितानां शब्दाना पुरतः उचित विलोमशब्द कोष्ठकात् चित्वा लिखतशब्दाः विलोमशब्द:
(क) पक्वः ______ (परिपक्वः, अपक्वः, क्वथितः)
उत्तरम्- 
अपक्वः

(ख) विमूढधीः ______ (सुधीः, निधिः, मन्दधी:)
उत्तरम्- सुधीः

(ग) कातरः ______ (अकरुणः, अधीरः, अकातरः)
उत्तरम्- 
अकातरः

(घ) कृतज्ञता ______ (कृपणता, कृतघ्नता, कातरता)
उत्तरम्-
 कृतघ्न्ता

(ङ) आलस्यम् ______ (उद्विग्नता, विलासिता, उद्योगः)
उत्तरम्- 
उद्योगः

(च) परुषा ______ (पौरुषी, कोमला, कठोरा)
उत्तरम्- 
कोमला।

(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
(क) प्रभूतम् ______  ______  ______
उत्तर:
 प्रभूतम् भूरि बहु विपुलम्

(ख) श्रेयः ______  ______  ______
उत्तरम्- 
श्रेयः शुभम् शिव कल्याणम्

(ग) चित्तम् ______  ______  ______
उत्तरम्-
 चित्तम् मनः चेतः मानसम्

(घ) सभा ______ ______ ______
उत्तरम्- 
सभा संसद परिषद सभा

(ङ) चक्षुष् ______  ______  ______
उत्तरम्-
 चक्षुष् लोचनम् नयनम् नैत्रम्

(च) मुखम् ______  ______  ______ 
उत्तरम्- मुखम् आननम् वक्त्रम् वदनम्

शब्द-मञ्जूषा
लोचनम् नेत्रम् भूरि
शुभम् परिषद् मानसम्
मनः सभा नयनम्
आननम् चेतः विपुलम्
संसद् बहु वक्त्रम्
वदनम् शिवम् कल्याणम्

प्रश्न.7. अधस्ताद् समासविग्रहा: दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः समस्तपदम् समासनाम

(क) तत्त्वार्थस्य निर्णयः ______ षष्ठी तत्पुरुषः
उत्तरम्- 
तत्वार्थनिर्णय

(ख) वाचि पटुः ______ सप्तमी तत्पुरुषः
उत्तरम्- 
वाक्पटुः

(ग) धर्म प्रददाति इति (ताम्) ______ उपपदतत्पुरुषः
उत्तरम्-
 धर्मप्रदा

(घ) न कातरः ______ नञ् तत्पुरुषः
उत्तरम्- अकातरः

(ङ) न हितम् ______ नञ् तत्पुरुषः
उत्तरम्- 
अहितम्

(च) महान् आत्मा येषाम् ______ बहुब्रीहिः
उत्तरम्- 
महात्मा

(छ) विमूढा धीः यस्य सः ______ बहुब्रीहिः
उत्तरम्- 
विमूढधीः

07.विचित्रा: साक्षी- अध्याय: समाधान

प्रश्न.1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तरम्- निर्धनः जनः अत्यधिक परिश्रम्य वित उपार्जितवान्।

(ख) जनः किमर्थं पदातिः गच्छति?
उत्तरम्- जनः अर्थपिडीतेन् पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तरम्- प्रसृते निशान्धकारे स अचिन्तयत, यत् “विजने प्रदेशे पदयात्रा न शुभावह।”

(घ) वस्तुतः चौरः कः आसीत्?

उत्तरम्- वस्तुतः चौरः आरक्षी एव आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तरम्- जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-“रे दुष्ट! तास्मिन् दिने त्वया अहं चोरितायाः मजूषायाः वारितः इदानी निज कृत्यस्य फलं भुङश्व! आस्मिन् चौर्या भियोगे, त्वं वर्ष त्रयस्य कारादण्ड लाप्स्यसे इति।

(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तरम्- मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्त च समालम्ब्य लीलयैव साधयन्ति।

प्रश्न.2. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) पुत्रं द्रष्टुं सः प्रस्थितः।
उत्तरम्- कं द्रष्टुं सः प्रस्थितः?

(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
उत्तरम्- करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?

(ग) चौरस्य पादध्वनिना अतिथि: प्रबुद्धः।
उत्तरम्-  कस्य पादध्वनिना अतिथिः प्रबुद्धः?

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तरम्- न्यायाधीशः कः आसीत्?

(ङ) स भारवेदनया क्रन्दति स्म।
उत्तरम्- स कथम् क्रन्दति स्म?

(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तरम्- उभौ शवं कुत्र स्थापितवन्तौ?

प्रश्न.3. यथानिर्देशमुत्तरत-
(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तरम्- आरक्षी चौर्ययौ च

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’ – अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तरम्- अध्वनि

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’ – अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्- निर्धन जनाय

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तरम्- आदिस्टवान्

(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’ – अत्र विशेष्यपदं किम्?
उत्तरम्- मति

प्रश्न.4. सन्धि/सन्धिविच्छेदं च कुरुत-
(क) पदातिरेव – ______ + ______
उत्तरम्- 
पदातिरेव – पदातिः + एव

(ख) निशान्धकारे – ______ + ______
उत्तरम्- निशान्धकारे – निशा + अन्धकारे

(ग) अभि + आगतम् – ______
उत्तर: अभि + आगतम् – अभ्यागतम्

(घ) भोजन + अन्ते – ______
उत्तरम्- भोजन + अन्ते – भोजनान्ते

(ङ) चौरोऽयम् – ______ + ______
उत्तरम्- चौरोऽयम् – चौरः + अयम्

(च) गृह + अभ्यन्तरे – ______
उत्तरम्- गृह + अभ्यन्तरे – गृहाभ्यन्तरे

(छ) लीलयैव – ______ + ______
उत्तरम्- लीलयैव – लीलया + एव

(ज) यदुक्तम् – ______ + ______
उत्तरम्- यदुक्तम् – यत् + उक्तम्

(झ) प्रबुद्धः + अतिथि: – ______
उत्तरम्- प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि:

प्रश्न.5. अधोलिखितानि पदानि भिन्न-भिन्न प्रत्ययान्तानि सन्ति।
तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम् . विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।
ल्यप् क्त क्तवतु तुमुन्
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
उत्तरम्-  ल्यप्  क्त  क्तवतु  तुमुन्
परिश्रम्य  प्रास्थितः  उपार्जितवान्  दापयितुम्
विहाय  प्रविष्टः  पृष्टवान  द्रष्टुम्
आदाय  नियुक्तः  नीतवान्  क्रोशितुम्
समागत्य  मुर्दितः  आदिष्टवान्  निर्णतुम्

प्रश्न.6. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
उत्तरम्- ते बसयानं विहाय पदातिरेव गंतुम् निश्चयं कृतवन्तः।

(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
उत्तरम्- चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन्।

(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
उत्तरम्- केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।

(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तरम्- अन्येषुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्त।

(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) सः __________ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
उत्तरम्- गृहात्

(ख) गृहस्थ: ___________ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
उत्तरम्- अतिथये

(ग) तौ __________ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
उत्तरम्- न्यायोधिशं

(घ) ___________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे। (इदम् शब्द सप्तमी)
उत्तरम्- अस्मिन्

(ङ) चौरस्य ___________ प्रबुद्धः अतिथि:। (पादध्वनिशब्दे तृतीया)
उत्तरम्- पादध्वनिना

प्रश्न.7. भिन्नप्रकृतिकं पदं चिनुत-
(क) विचित्रा, शुभावहा, शङ्कया, मञ्जूषा
उत्तरम्- शङ्कया

(ख) कश्चन, किञ्चित्, त्वरितं, यदुक्तम्
उत्तरम्- कश्चन

(ग) पुत्रः, तनयः, व्याकुलः, तनूज:
उत्तरम्- व्याकुलः

(घ) करुणापरः, अतिथिपरायणः, प्रबुद्धः, जनः
उत्तरम्- प्रबुद्धः

अन्यपरीक्षोपयोगी प्रश्नाः
प्रश्न.1. रेखाड्किंत-पदानि आधृत्य प्रश्ननिर्माण कुरुत-
(क) स: न्यायाधीशम् अभिवाद्य निवेदितवान्।
उत्तरम्- सः कम् अभिवाद्य निवेदितवान्?

(ख) शवं न्यायालये आनेतुम् आदिष्टवान्।
उत्तरम्- शव कुत्र आनेतुम् आदिष्टवान्?

(ग) ग्रामस्य आरक्षी एव चौरः आसीत्।
उत्तरम्- कस्य आरक्षी एव चौरः आसीत्?

(घ) असौ गन्तव्यात दूरे आसीत्।
उत्तरम्- असौ कस्मात् दूरे आसीत्?

(च) रुग्ण्ताम् आकर्ण्य व्याकुलः जातः।
उत्तरम्-  काम् आकर्ण्य व्याकुलः जातः?

प्रश्न.2. प्रस्तुत पाठं पठित्वा अधोलिखिति प्रश्नानां उत्तराणि लिखत-
1. एकपदेन उत्तरत
(क)
 पिता कस्य रुग्णताम् आकर्ण्य व्याकुलः जातः?
उत्तरम्- तनूजस्य

(ख) गृही कीदृशः आसीत्?
उत्तरम्- करुणापरः

(ग) वस्ततुः चौरः कः आसीत्?
उत्तरम्- आरक्षी

(घ) न्यायाधीशः कं दोषभाजनम् अमन्यत?
उत्तरम्- आरक्षिणम्

(च) सुपुष्टदेहः कः आसीत्?
उत्तरम्- आरक्षी।

06.सौहार्दं प्रकृतेः शोभा- अध्याय: समाधान

प्रश्न.1. अधोलिखितप्रश्नानामुत्तराणि एकपदेन लिखत –
(क) वनराजः कैः दुरवस्थां प्राप्तः?

उत्तरम्- वानरेः

(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तरम्- काक:

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तरम्- आदर्श

(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।
उत्तरम्- गजः

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तरम्- वराकान्

(च) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तरम्-
 पिच्छानुद्घाट्य

(छ) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तरम्- उल्लूकस्य

(ज) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तरम्-  दश

प्रश्न.2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत –
(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तरम्- नि:संशयं चन्तुवः कृतान्तः मन्यते।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तरम्- बकः वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति यत् सः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषाम् रक्षायाः करिष्यति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तरम्- प्रकृतिमाता प्रविश्य सर्वप्रथम कथयति “भोः भोः प्राणिनः यूयम सर्वे एव में सन्ततिः। कथं मिथ: कलह कुर्वन्ति।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तरम्- यदि राजा सम्यक् न भवति तदा प्रजा नौकाइव विप्लवेत्।

प्रश्न.3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तरम्- सिंहः वानराभ्यां किमर्थ असमर्थः एवासीत्?

(ख) गज; वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तरम्- गजः वन्यपशून् तुदन्तं केन् पोथयित्वा मारयति?

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तरम्- वानरः आत्मानं कस्मै योग्यः मन्यते?

(घ) मयूरस्य नृत्यं प्रकृते: आराधना।
उत्तरम्- मयूरस्य नृत्यं कया आराधना?

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तरम्- सर्वे किम् प्रणमन्ति?

प्रश्न.4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत –
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
(ख) का-का इति बकस्य ध्वनिः भवति।
(ग) काकपिकयोः वर्णः कृष्णः भवति।
(घ) गजः लघुकायः, निर्बल: च भवति।
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानित मन्यते।
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभ: जायते।
उत्तरम्- 
(क) न
(ख) न
(ग) आम
(घ) न
(ङ) न
(च) आम्

प्रश्न.5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत –
स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः
(क) 
काक: ______ भवति।
उत्तरम्- मेध्यामध्यभक्षकः

(ख) ______ परभृत् अपि कथ्यते।
उत्तरम्- 
पिकः

(ग) बकः अविचल: ______ इव तिष्ठति।
उत्तरम्- स्थितप्रज्ञः

(घ) मयूरः ______ इति नाम्नाऽपि ज्ञायते।
उत्तरम्- अहिभुक्

(ङ) उलूक ______ पदनिर्लिप्तः चासीत्।
उत्तरम्- आत्मश्लाघीहीन:

(च) सर्वेषामेव महत्त्वं विद्यते ______ !
उत्तरम्- यथासमयमा

प्रश्न.6. परिचयं पठित्वा पात्रस्य नाम लिखत –
(क) अहं शुण्डेन कमपि पोथयित्वा मारयितुं समर्थः।

उत्तरम्- गजः

(ख) मम सत्यप्रियता सर्वेषां कृते उदाहरणस्वरूपा।
उत्तरम्- 
काक:

(ग) मम पिच्छानामपूर्व सौन्दर्यम्।।
उत्तरम्- 
मयूरः

(घ) अहं पराक्रमिणं भयंकर वापि जन्तुं पराजेतु समर्थः।
उत्तरम्- वानरः

(ङ) अहं वनराजः। कथं सर्वे मिलित्वा मां तुदन्ति?
उत्तरम्- सिंहः

(च) अहम् अगाधजलसञ्चारी अपि गर्व न करोमि?
उत्तरम्- प्रकृतिमाता

(छ) अहं सर्वेषां प्राणिनां जननी अस्मि।
उत्तरम्- 
प्रकृतिमाता

(ज) एषः तु करालवक्त्रः दिवान्धः चास्ति।
उत्तरम्- काकः

प्रश्न.7. वाच्यपरिवर्तनं कृत्वा लिखत उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च। – क्रुधन सिंहेन इतस्ततः धाव्यते गय॑ते च।
(क) त्वया सत्यं कथितम्।
उत्तरम्- त्वं सत्यं कथितम्।

(ख) सिंहः सर्वजन्तून् पृच्छति।
उत्तरम्- सिहेन् सर्वजन्तून् पृच्छ।

(ग) काकः पिकस्य संतति पालयति।
उत्तरम्- काकेन् पिकस्य सन्ततिं पालयते।

(घ) मयूरः विधात्रा एवं पक्षिराज: वनराजः वा कृतः।
उत्तरम्- विधाता मयूरं एव पक्षिराज: वनराज: वा अकरोत।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते
उत्तरम्- सर्वाः खगाः कोऽपि खगः एव वनराजः कर्तुम् इच्छाति स्म।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तरम्- सर्वे मिलित्वा प्रकृति सौन्दर्याय प्रयत्नं कुर्वेयुः।

प्रश्न.8. समासविग्रह समस्तपदं वा लिखत –
(क) तुच्छजीवैः ______
(ख) वृक्षोपरि ______
(ग) पक्षिणां सम्राट् ______
(घ) स्थिता प्रज्ञा यस्य सः ______
(ङ) अपूर्वम् ______
(च) व्याघ्रचित्रका ______
उत्तर:

(क) तुच्छजीवैः तुच्छ जीवैः।
(ख) वृक्षोपरि वृक्षस्य उपरि।
(ग) पक्षिणां सम्राट् पक्षिसम्राट।
(घ) स्थिता प्रज्ञा यस्य सः स्थित प्रज्ञः।
(ङ) अपूर्वम् न पूर्वः।
(च) व्याघ्रचित्रका व्याघ्र च चित्रकाश्च।

प्रश्न.9. प्रकृतिप्रत्ययविभागं कुरुत/योजयित्वा वा पदं रचयत –
(क) क्रुध-क्त ______
(ख) आकृष्य ______
(ग) सत्यप्रियता ______
(घ) पराक्रमी ______
(ङ) कूर्द क्त्वा ______
(च) शृण्व न् ______
उत्तर:
(क) क्रुध्+क्त कुद्धः।
(ख) आकृष्य आ + कृष् + ल्यप्
(ग) सत्यप्रियता सत्यप्रिय तिल।
(घ) पराक्रमी पराक्रम + डीप।
(ङ) कू क्त्वा कुर्दयित्वा।
(च) शृण्वन् शुण + शत्।

05.सुभाषितानि- अध्याय: समाधान

प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) मनुष्याणां महान् रिपुः कः?
उत्तरम्- 
आलस्यं

(ख) गुणी किं वेत्ति?
उत्तरम्-  गुणं

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम्-   महताम्

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम्- 
उदीरितोऽर्थः

(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तरम्-  सविता

प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धुः नास्ति?
उत्तरम्-  उद्यमेन समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति?
उत्तरम्-  पिक: वसन्तस्य गुणं जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तरम्-  परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तराणि: नराणां प्रथमः शत्रुः क्रोधः।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तराणि: 
सुधियः सख्यं सुधीभिः सह भवति।

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तरम्- अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

प्रश्न.3.अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
(क) यः _______ उद्दिश्य प्रकुप्यति तस्य _______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति,  _______ तं कथं परितोषयिष्यति?

उत्तरम्-  य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

(ख) _______ संसारे खल _______ निरर्थकम् नास्ति। अश्वः चेत्  _______ वीरः खर: _______ वहने (वीर:) (भवति)।
उत्तरम्-  विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।

प्रश्न.4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम्-  
अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तरम्- 
समान-शील-व्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तरम्-  नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम्-  सम्पत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न.5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम्-  गुणिनः गुणान् गुणानि जानन्ति।

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम्-  पशुना उदीरितः अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तरम्-  मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तरम्-  केन छाया निर्वायते।

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तरम्-  एषः एव अग्नि शरीर दहति।

प्रश्न.6. (अ). सन्धि / सन्धिविच्छेदं कुरुत-
(क) न + अस्ति + उद्यमसम: – ______.
उत्तराणि: नास्त्युद्यमसमः

(ख) ______ + ______ – तस्यापगमे
उत्तरम्- तस्य + अपगमे

(ग) अनुक्तम् + अपि + ऊहति – ______
उत्तरम्-  
अनुक्तमप्यूहति

(घ) ______ + ______ – गावश्च
उत्तरम्-  गावः + च

(ङ) ______ + ______ – नास्ति
उत्तराणि: न + अस्ति

(च) रक्तः + च + अस्तमये – ______
उत्तरम्-  रक्तश्चास्तमये

(छ) ______ + ______ – योजकस्तत्र
उत्तरम्- योजक: + तत्र

(आ). समस्तपदं/विग्रहं लिखत-
(क) उद्यमसमः – ______
(ख) शरीरे स्थितः – ______
(ग) निर्बल: – ______
(घ) देहस्य विनाशाय – ______
(ङ) महावृक्षः – ______
(च) समानं शीले व्वसनं येषां तेषु – ______
(छ) अयोग्यः – ______
उत्तरम्- 
(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:

प्रश्न.7. (अ). अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
(क) प्रसीदति – ______
(ख) मूर्खः – ______
(ग) बली – ______
(घ) सुलभः – ______
(ङ) संपत्ती – ______
(च) अस्तमये – ______
(छ) सार्थकम् – ______
उत्तरम्-

(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्

(आ). संस्कृतेन वाक्यप्रयोगं कुरुत-

उत्तराणि:
(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।

04.जननी तुल्यवत्सला- अध्याय: समाधान

प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तरम्- 
कृषकः

(ख) वृषभः कुत्र पपात?
उत्तरम्- क्षेत्रे

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम्- मातुः

(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तरम्- 
बलीवर्दयोः

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम्- प्रवर्ष:

प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषक: किं करोति स्म?
उत्तरम्- कृषकः क्षेत्रकर्षणं करोति स्म।

(ख) माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म?
उत्तरम्- भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
उत्तरम्- सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-” भो वासव! पुत्रत्य दैन्यं दृष्ट्वा अहं रोदिमि।”

(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम्- मातुः अधिका कृपा दीने पुत्रे भवति।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम्- इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।

(च) जननी कीदृशी भवति?
उत्तरम्- जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम्- अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।

प्रश्न.3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ – ख स्तम्भ
(क) कृच्छ्रेण – (i) वृषभः
(ख) चक्षुभ्या॑म – (ii) वासवः
(ग) जवने – (iii) नेत्राभ्याम्
(घ) इन्द्रः – (iv) अचिरम्
(ङ) पुत्राः – (v) द्रुतगत्या
(च) शीघ्रम् – (vi) काठिन्येन
(छ) बलीवर्दः – (vii) सुताः

उत्तरम्- 
क स्तम्भ – ख स्तम्भ
(क) कृच्छेण – (i) काठिन्येन
(ख) चक्षुाम् – (ii) नेत्राभ्याम्
(ग) जवने – (iii) द्रुतगत्या
(घ) इन्द्रः – (iv) वासवः
(ङ) पुत्राः – (v) सुताः
(च) शीघ्रम् – (vi) अचिरम्
(छ) बलीवर्दः – (vii) वृषभः

प्रश्न.4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तरम्- सः केन/कथम् भारम् उद्वहति?

(ख) सुराधिपः ताम् अपृच्छत्?
उत्तरम्-  कः ताम् अपृच्छत्?

(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तरम्- अयम् केभ्यः/ केभ्यो दुर्बलः?

(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तरम्- कासाम् माता सुरभिः आसीत्?

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तरम्- कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?

प्रश्न.5. रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्
उत्तरम्- कुर्वन्नासीत्

(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तरम्- 
तयोः + एकः

(ग) तथापि वृषः न + उत्थितः
उत्तरम्- नोत्थितः

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तरम्-  सत्सु + अपि

(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।

उत्तरम्- तथाप्यहमेतस्मिन्

(च) मे बहूनि + अपत्यानि सन्ति।
उत्तरम्- बहून्यपत्यानि

(छ) सर्वत्र जलोपप्लवः संजात:।
उत्तरम्- जल + उपलव:

प्रश्न.6.अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
(क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
उत्तरम्- धेनुमात्रे सुरभये (सुरभ्यै)।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तरम्- धेनुमात्रे सुरभये (सुरभ्यै)।

(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
उत्तरम्- दुर्बल बलीवय।

(घ) मे बहूनि अपत्यानि सन्ति।
उत्तरम्- धेनुमात्रे सुरभये (सुरभ्यै)।

(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तरम्- आखण्डलाय (इन्द्राय)।

(च) सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तरम्-  धेनुमात्रे सुरभये (सुरभ्यै)।

प्रश्न 7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ – ख स्तम्भ
(क) कश्चित् – (i) वृषभम्
(ख) दुर्बलम् – (ii) कृपा
(ग) क्रुद्धः – (iii) कृषीवल:
(घ) सहस्राधिकेषु – (iv) आखण्डल:
(ङ) अभ्यधिका – (v) जननी
(च) विस्मितः – (vi) पुत्रेषु
(छ) तुल्यवत्सला – (vii) कृषक:
उत्तरम्-
क स्तम्भ – ख स्तम्भ
(क) कश्चित् – (i) कृषक:
(ख) दुर्बलम् – (ii) वृषभम्
(ग) क्रुद्धः – (iii) कृषीवल:
(घ) सहस्राधिकेषु – (iv) पुत्रेषु
(ङ) अभ्यधिका – (v) कृपा
(च) विस्मितः – (vi) आखण्डल:
(छ) तुल्यवत्सला – (vii) जननी

03.शिशुलालनम्-अध्याय: समाधान

प्रश्न 1. एकपदेन उतरं लिखत
(क) कुशलवौ कम् उपसृत्य प्रणमतः?
(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?
(ग) वयोऽनुरोधात् कः लालनीयः भवति?
(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः?
(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?
उत्तर:

(क) रामम्
(ख) देवी
(ग) शिशुजनः
(घ) उपनयनोपदेशेन
(ङ) तपोवने

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
(ग) बालभावात् हिमकरः कुत्र विराजते?
(घ) कुशलवयोः वंशस्य कर्ता कः?
(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तर:

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्?
(ख) रामः लवकुशौ स्वाङ्के उपवेशयितुम् कथयति।
(ग) बालभावात् हिमकरः पशुपति-मस्तके विराजते।
(घ) कुशलवयोः वंशस्य कर्ता सहस्रदीधितिः आसीत्।
(ङ) कुशलवयोः मातरं वाल्मीकिः ‘वधू’ इति नाम्ना आह्वयति।

प्रश्न 3. रेखाङ्कितेषु पदेषु विभिक्तं तत्कारणं च उदाहरणानुसारं निर्दिशत —
उत्तर: विभिक्तं — तत्कारणम्
(क) द्वितीया — ‘उप (उपसर्ग) + विश्’ धातु योगे
(ख) द्वितीया — ‘धिङ् योगे
(ग) द्वितीया — ‘अधि (उपसर्ग) + आस् धातु योगे
(घ) तृतीया — ‘अलम्’ योगे
(ङ) द्वितीया — ‘उप (उपसर्ग) + सृ धातु योगे

प्रश्न 4. यथानिर्देशम् उत्तरत
(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्यविपरीतार्थकपदं चित्वा लिखत?
(ग) ‘विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
(घ) ‘तस्मादक-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’-अत्र आयुषः इत्यर्थे किं किं पदं प्रयुक्तम्?
उत्तर: 
(क) अहम्
(ख) कुपिता
(ग) रामाय
(घ) अध्यास्याताम्
(ङ) वयसः

प्रश्न 5. अधोलिखितानि वाक्यानि कः कं प्रति कथयति
उत्तर: कः — कम्
(क) रामः — लवकुशौ
(ख) विदूषकः — कुशम्
(ग) कुशः — रामम्
(घ) लवः — विदूषकम्
(ङ) रामः — विदूषकम्

प्रश्न 6. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत
शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम् अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः

उत्तर:

(अ) विशेषण-विशेष्यपदानि योजयत
यथा- विशेषण पदानि — विशेष्य पदानि
श्लाघ्या – कथा
(1) उदात्तरम्यः — (क) समुदाचारः
(2) अतिदीर्घः — (ख) स्पर्शः
(3) समरूपः — (ग) कुशलवयोः
(4) हृदयग्राही — (घ) प्रवास:
(5) कुमारयोः — (ङ) कुटुम्बवृत्तान्तः
उत्तर:

(1) उदात्तरम्यः — (क) समुदाचारः
(2) अतिदीर्घः — (ख) प्रवासः
(3) समरूपः — (ग) कुटुम्बवृत्तान्त:
(4) हृदयग्राही — (घ) स्पर्शः
(5) कुमारयोः — (ङ) कुशलवयोः

प्रश्न 7. (क) अधोलिखितपदेषु सन्धिं कुरुत
(क) द्वयोः + अपि — ………….
(ख) द्वौ + अपि — ………….
(ग) कः + अत्र — ………….
(घ) अनभिज्ञः + अहम् — ………….
(ङ) इति + आत्मानम् — ………….
उत्तर:

(क) द्वयोः + अपि = द्वयोरपि
(ख) द्वौ + अपि = द्वावपि
(ग) कः + अत्र = कोऽत्र
(घ) अनभिज्ञः + अहम् = अनभिज्ञोऽहम्
(ङ) इति + आत्मानम् = इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत
(क) अहमप्येतयोः — ………….
(ख) वयोऽनुरोधात् — ………….
(ग) समानाभिजनौ — ………….
(घ) खल्वेतत् — ………….
उत्तर:

(क) अहमप्येतयो: – अहम् + अपि + एतयोः
(ख) वयोऽनुरोधात् – वयः + अनुरोधात्
(ग) समानाभिजनौ – समान + अभिजनौ
(घ) खल्वेतत् – खलु + एतत्

02.बुद्धिर्बलवती सदा- अध्याय समाधान

प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) बुद्धिमती कुत्र व्याघ्र ददर्श?

उत्तरम्- गहनकानने

(ख) भामिनी कया विमुक्ता?
उत्तरम्- 
निजबुद्ध्या

(ग) सर्वदा सर्वकार्येषु का बलवती?
उत्तरम्- बुद्धिः

(घ) व्याघ्रः कस्मात् बिभोति?
उत्तरम्- मानुषात्

(ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तरम्- शृगालम्

प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) बुद्धिमती केन उपेता पितुहं प्रति चलिता?
उत्तरम्- 
बुद्धिमती पुत्रद्वयोपेता पितृर्गह प्रति चलिता।

(ख) व्याघ्रः किं विचार्य पलायित:?
उत्तरम्- काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः।

(ग) लोके महतो भयात् कः मुच्यते?
उत्तरम्- लोके महतो भयात् बुद्धिमान् मुच्यते।

(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तरम्- यत् मानुषादपि बिभेषि इति वदन् जम्बुक: व्याघ्रस्य उपहास कराति।

(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तरम्- 
बुद्धिमती शृगाल उक्त्वती-“रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।

प्रश्न.3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
उत्तरम्- 
तत्र किम् नाम राजपुत्रः वसति स्म?

(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
उत्तरम्- बुद्धिमती कया पुत्रौ प्रहृतवती?

(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
उत्तरम्- कम् दृष्ट्वा धूर्तः शृगालः अवदत्?

(घ) त्वं मानुषात् विभषि।
उत्तरम्- त्वम् कस्मात् विभेषि?

(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तरम्- पुरा त्वया कस्मै व्याघ्रत्रय दत्तम्?

प्रश्न.4. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।

उत्तरम्- बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृह प्रति चलिता।

(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
उत्तरम्- मोर्गे सा एकं व्याघ्रम् अपश्यत्।

(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
उत्तरम्- व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।

(घ) मोर्गे सा एकं व्याघ्रम् अपश्यत्।
उत्तरम्- व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।

(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्र विभज्य भुज्यताम्।
उत्तरम्- जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।

(च) बुद्धिमती पुत्रद्वयेन उपेता पितृह प्रति चलिता।
उत्तरम्- प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।

(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
उत्तरम्- ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।

(ज) गलबद्ध शृगालक: व्याघ्रः पुनः पलायितः।
उत्तरम्- गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।

प्रश्न.5. सन्धिं / सन्धिविच्छेदं व कुरुत-
(क) पितुर्गृहम् –  ______ +  ______
(ख) एकैक: –  ______ +  ______
(ग)  ______ – अन्यः + अपि
(घ)  ______ – इति + उक्त्वा
(ङ)  ______ – यत्र + आस्ते

उत्तरम्- (क) पितुहम् – पितुः + गृहम्
(ख) एकैकः – एक + एकः
(ग) अन्योऽपि – अन्यः + अपि
(घ) इत्युक्त्वा – इति + उक्त्वा
(ङ) यत्रास्ते – यत्र + आस्ते

प्रश्न.6. अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) ददर्श – (दर्शितवान्, दृष्टवान्)
(ख) जगाद – (अकथयत्, अगच्छत्)
(ग) ययौ – (याचितवान्, गतवान्)
(घ) अत्तुम् – (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते – (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते – (पश्यति, इच्छति)

उत्तरम्- (क) ददर्श – दृष्टवान्
(ग) जगाद – अकथयत्
(ङ) ययौ – गतवान्
(छ) अत्तुम् – खादितुम्
(झ) मुच्यते – मुक्तो भवति
(ट) ईक्षते – पश्यति

प्रश्न.7. (अ). पाठात् चित्वा पर्यायपदं लिखत-
(क) वनम् – ______
(ख) शृगालः – ______
(ग) शीघ्रम् – ______
(घ) पत्नी – ______
(ङ) गच्छसि – ______
उत्तरम्-
 
(क) वनम् – काननम्
(ख) शृगालः – जम्बुक:
(ग) शीघ्रम् – सत्वरम्
(घ) पत्नी – भार्या
(ङ) गच्छसि – यासि

(आ). पाठात् चित्वा विपरीतार्थकं पदं लिखत-
(क) प्रथमः – ______
(ख) उक्त्वा – ______
(ग) अधुना – ______
(घ) अवेला – ______
(ङ) बुद्धिहीना – ______
उत्तराणि:

(क) प्रथमः – द्वितीयः
(ख) उक्त्वा – श्रुत्वा
(ग) अधुना – तदा
(घ) अवला – वेला
(ङ) बुद्धिहीना – बुद्धिमती

01.शुचिपर्यावरणम्- अध्याय समाधान

प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) अत्र जीवितं कीदृशं जातम्?

उत्तरम्- दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम्- कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम्- भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तरम्- मानवाय

(ङ) केषां माला रमणीया?
उत्तरम्- ललितलतानां

प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम्- कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम्- यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम्- अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम्- कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम्- स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम्- 
अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

प्रश्न.3. सन्धिं / सन्धिविच्छेदं कुरुत-
(क) प्रकृतिः + ______ = प्रकृतिरेव

उत्तरम्- एव

(ख) स्यात् + ______ + ______ = स्यान्नैव
उत्तरम्- न, एव

(ग) ______ + अनन्ता = ह्यनन्ताः
उत्तरम्- हि

(घ) बहिः + अन्तः + जगति = ______
उत्तरम्- 
बहिरन्तर्जगति

(ङ) ______ + नगरात् = अस्मान्नगरात्
उत्तरम्- अस्मात्

(च) सम् + चरणम् = ______
उत्तरम्- पञ्चरणम्

(छ) धूमम् + मुञ्चति = ______
उत्तरम्- धूमंमुञ्चति

प्रश्न.4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
उत्तरम्- भृशम्

(ख) ______ जीवन दुर्वहम् अस्ति।
उत्तरम्- अत्र

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम्ला ______ भदायकं भवति।
उत्तरम्- अपि

(घ) पर्यावरणस्य संरक्षणम्प्र ______ कृतेः आराधना।
उत्तरम्- एव

(ङ) ______ समयस्य सदुपयोगः करणीयः।
उत्तरम्- सदा

(च) भूकम्पित-समये ______ गमनमेव उचितं भवति।
उत्तरम्- बहिः

(छ) ______ हरीतिमा ______ शुचि पर्यावरणम्।
उत्तरम्- यत्र, तत्र

प्रश्न.5. (अ). अधोलिखितानां पदानां पर्यायपदं लिखत-
(क) सलिलम् – ______
(ख) आम्रम् – ______
(ग) वनम् – ______
(घ) शरीरम् – ______
(ङ) कुटिलम् – ______
(च) पाषाणः – ______

उत्तरम्- 
(क) जलम्
(ख) रसालम्
(ग) कान्तारम्
(घ) तनुः
(ङ) वक्रम्
(च) प्रस्तर:

(आ). अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) सुकरम् – ______
(ख) दूषितम् – ______
(ग) गृह्णन्ती – ______
(घ) निर्मलम् – ______
(ङ) दानवाय – ______
(च) सान्ताः –
 ______
उत्तरम्- 
(क) दुष्करम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्

प्रश्न.6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-


उत्तरम्-

(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास

प्रश्न.7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्- कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्- केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्- के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्-  केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्- कस्याः