Chapter 10 The Other Side of Zero Solutions
November 5, 2024Chapter 8 buddhi sarvaarthasaadhika Solutions
November 5, 2024Chapter 07 atithidevo bhav Solutions
वयम् अभ्यासं कुर्मः
प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) राधिका कथं चलति स्म ?
उत्तरम्: कूर्दमाना
(ख) गृहे कति अतिथयः सन्ति ?
उत्तरम्: पञ्च
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्: राधिकां
(घ) मार्जार्याः कति शावका: ?
उत्तरम्: चत्वारः
(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तरम्: क्षीरं
(च) चित्रवर्णः कः अस्ति ?
उत्तरम्: शबल:
प्रश्न 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्: मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति ।
(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्: राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति ।
(ग) विशिष्टाः अतिथयः के?
उत्तरम्: मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।
(घ) पितामही राधिकां किं वदति ?
उत्तरम्: पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । ”
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्: यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।
(च) मार्जार्या: शावकाः कीदृशाः सन्ति ?
उत्तरम्: तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।
प्रश्न 3. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु ।
यथा – लेखनी अत्र अस्ति । लेखनी कुत्र अस्ति ?
(क) वृक्षः तत्र अस्ति ।
उत्तरम्: वृक्षः कुत्र अस्ति ।
(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्: देवालयः कुत्र अस्ति ।
(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्: वायुः कुत्र अस्ति ।
(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्: बालकाः कुत्र तिष्ठन्ति ।
(ङ) माता अत्र अस्ति ।
उत्तरम्: माता कुत्र अस्ति ?
प्रश्न 4. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।
यथा – उत्पीठिकायां पुस्तकम् अस्ति ।
उत्पीठिकायां घटी नास्ति ।
(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)

उत्तरम्:
उत्पीठिकायां सङ्गणकम् अस्ति ।
उत्पीठिकायां लेखनी नास्ति ।
उत्पीठिकायां कन्दुकम् अस्ति ।
उत्पीठिकायां वृक्षः नास्ति ।
उत्पीठिकायां घटी नास्ति ।
उत्पीठिकायां फलम् नास्ति ।
उत्पीठिकायां चषक: नास्ति ।
उत्पीठिकायां कूपी अस्ति ।
उत्पीठिकायां स्यूतः अस्ति ।
उत्पीठिकायां पुस्तकम् अस्ति ।
प्रश्न 5. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।
उत्तरम्-
अत्र-
छात्रः कुत्र अस्ति ? – छात्रः अत्र अस्ति ।
काकः कुत्र अस्ति? – काकः अत्र अस्ति ।
दीपक: कुत्र अस्ति ? – दीपकः अत्र अस्ति ।
घटः कुत्र अस्ति ? – घटः अत्र अस्ति ।
सुधाखण्डः कुत्र अस्ति ? – सुधाखण्डः अत्र अस्ति ।
शिक्षकः कुत्र अस्ति ? – शिक्षकः अत्र अस्ति ।
बालिका कुत्र अस्ति ? – बालिका अत्र अस्ति ।
लेखनी कुत्र अस्ति ? – लेखनी अत्र अस्ति ।
माला कुत्र अस्ति ? – माला अत्र अस्ति ।
तत्र-
विद्यालयः कुत्र अस्ति ? – विद्यालयः तत्र अस्ति ।
गायक : कुत्र अस्ति ? – गायकः तत्र अस्ति ।
घटी कुत्र अस्ति ? – घटी तत्र अस्ति ।
फलम् कुत्र अस्ति ? – फलम् तत्र अस्ति ।
गृहम् कुत्र अस्ति ? – गृहम् तत्र अस्ति ।
वाटिका कुत्र अस्ति ? – वाटिका तत्र अस्ति ।
हरिणः कुत्र अस्ति ? – हरिणः तत्र अस्ति ।
अजः कुत्र अस्ति ? – अजः तत्र अस्ति ।
मूषकः कुत्र अस्ति ? – मूषकः तत्र अस्ति ।
सर्वत्र-
प्रकाशः कुत्र अस्ति ? – प्रकाश: सर्वत्र अस्ति ।
परमेश्वरः कुत्र अस्ति ? – परमेश्वरः सर्वत्र अस्ति ।
ज्ञानम् कुत्र अस्ति ? – ज्ञानम् सर्वत्र अस्ति ।
आकाशः कुत्र अस्ति? – आकाशः सर्वत्र अस्ति ।
अणवः कुत्र अस्ति ? – अणवः सर्वत्र अस्ति ।
प्रकृतिः कुत्र अस्ति ? – प्रकृतिः सर्वत्र अस्ति ।
पुष्पाणि कुत्र अस्ति ? – पुष्पाणि सर्वत्र अस्ति ।
वायुः कुत्र अस्ति ? – वायुः सर्वत्र अस्ति ।
प्रेम कुत्र अस्ति ? – प्रेम सर्वत्र अस्ति ।
एकत्र –
बालकः कुत्र अस्ति ? – बालक: एकत्र अस्ति ।
मयूरः कुत्र अस्ति ? – मयूर : एकत्र अस्ति ।
मित्रम् कुत्र अस्ति ? – मित्रम् एकत्र अस्ति ।
पुत्रः कुत्र अस्ति ? – पुत्रः एकत्र अस्ति ।
महिला कुत्र अस्ति ? – महिला एकत्र अस्ति ।
सेविका कुत्र अस्ति ? – सेविका एकत्र अस्ति ।
चटका कुत्र अस्ति ? – चटका एकत्र अस्ति ।
दोला कुत्र अस्ति ? – दोला एकत्र अस्ति ।
प्रश्न 6. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।
यथा- भोजनशालायां पाचकः अस्ति ।
(सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्)
उत्तरम्:
भोजनशालायां पात्रम् अस्ति ।
भोजनशालायां अग्निः अस्ति ।
भोजनशालायां जलम् अस्ति ।
भोजनशालायां तण्डुलाः सन्ति ।
भोजनशालायां शाकानि सन्ति ।
प्रश्न 7. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?
(क) अमितः गृहात् बहिः गच्छति । _______
उत्तरम्: बहि:
(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । _______
उत्तरम्: उपरि
(ग) सः फलानि अधः क्षिपति । _______
उत्तरम्: अधः
(घ) तत्र एक: बिडालः अस्ति । _______
उत्तरम्: तत्र
(ङ) बिडाल : गृहस्य अन्तः प्रविशति । _______
उत्तरम्: अन्तः
प्रश्न 8. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु ।
यथा-
उत्तरम्:
मत्स्यः समुद्रे अस्ति । – मत्स्यः वृक्षे नास्ति ।
मधुरता लड्डुके अस्ति । – लड्डुके कषाय नास्ति ।
उष्णता सूर्ये अस्ति । – चन्द्रे नास्ति ।
वानरः वृक्षे अस्ति । – नद्याम् नास्ति ।
नौका जले अस्ति । – पर्वते नास्ति ।
अज्ञानम् पण्डिते नास्ति । – मूर्खे अस्ति ।
चन्द्रः पूर्णिमायाम् अस्ति। – अमावस्यायाम् नास्ति ।
अवकाश: रविवासरे अस्ति। – सोमवासरें नास्ति ।
प्रश्न 9. परियोजनाकार्यम्
(i) पाठे मार्जारशावकानां नामानि पश्यन्तु । तेषां नामकरणे राधिकायाः किं चिन्तनम् आसीत्? तदनुसारं स्वनामधेये किम् उद्देश्यं स्यात् इति विमर्श कुर्वन्तु ।
उत्तरम्: मार्जारशावकानाम् नामकरणे राधिकायाः चिन्तनम् आसीत् यत् तन्वी शरीरस्य सौंदर्येण सुन्दरी आसीत् । मृद्वी स्पर्शेन अतीव कोमला आसीत् । शबल: चित्रवर्ण : आसीत्। भीमः स्थूलः आसीत् । राधिका तेषाम् नामानि शरीरस्य गुणानुसारेण अचिन्तयत् ।
(ii) विद्यालयपरिसरे किम् अस्ति किं नास्ति इति लिखन्तु कक्षायां च श्रावयन्तु।
उत्तरम्: विद्यालयपरिसरे एकं क्रीडाक्षेत्रम् अस्ति। विद्यालयस्य भवनम् भव्यम् विशालम् च अस्ति । विद्यालयं परितः वृक्षाः सन्ति। पादपेषु सुन्दराणि पुष्पाणि विकसन्ति । विद्यालयस्य भवने अनेके कक्षाः प्रकोष्ठाः च सन्ति । एक: पुस्तकालयः अस्ति । तत्र एक भोजनालयः अपि अस्ति । तत्र सर्वत्र स्वच्छं क्षेत्रम् अस्ति । अस्वच्छता नास्ति ।

- उपरि – बिडाल: फलकस्य उपरि अस्ति ।
- अधः – बिडालः फलकस्य अधः अस्ति ।
- कोणे – बिडालः फलकस्य कोणे अस्ति ।
- केन्द्रे – बिडाल: आसनस्य केन्द्रे अस्ति ।
- समीपे – बिडाल: पेटिकायाः समीपे अस्ति ।
- दूरे – बिडाल: पेटिकायाः दूरे अस्ति ।
- अन्तः – बिडाल: पेटिकायाः अन्तः अस्ति ।
- बहि: – बिडाल: पेटिकायाः बहिः अस्ति ।
- पुरतः – बिडालः कन्दुकस्य पुरतः अस्ति ।
- पृष्ठतः – बिडालः कन्दुकस्य पृष्ठतः अस्ति ।
- दक्षिणतः – बिडाल : बालकस्य दक्षिणतः अस्ति ।
- वामतः – बिडालः बालकस्य वामतः अस्ति ।